Showing posts with label sikhya. Show all posts
Showing posts with label sikhya. Show all posts

Sunday, 21 October 2018

वेदांग शिक्षा २

स्थानप्रकरणम्
तावत्  तत्र स्थानम्।१।
कण्ठ्याः अकवर्गहविसर्जनीयाः।२
एकेषां हविसर्जनियावुरस्याः ।३।
जिह्व्यो जिह्वामूलीयः।४।
ऋवर्ण कवर्गश्च जिह्व्यः एकेषाम् ।५।
एकेषां कवर्गावर्णानुस्वारजिह्वामूलीया जिह्वया।६।
एके सर्वमुखस्थानमवर्णमिति।७।
एके कण्ठ्यानास्यमात्रानिति।८। 
तालव्याः इचवर्गरशाः।९।
मूर्धन्याः ऋटवर्गरषाः।१०।
दुःस्पुष्टः अपि।११।
रेफो दन्तमूलीस्थानमेकेषाम्।१२।
दन्त्याः लृतवर्गलसाः।१३।
एकेषां दन्तमूलस्तु तवर्गः।१४।
दन्त्योष्ठ्यो वकारः।१५।
एकेषाम् सृक्किणीस्थानम्।१६।
ओष्ठ्याः उपूपध्मानीया।१७।
नासिक्याः अनुस्वारयमाः।१८।
नासिक्यः अपि।१९।
एकेषां कण्ठ्यनासिक्यमनुस्वारम्।२०।
एकेषां यमाश्च नासिक्य जिह्वामूलीयः।२१।
कण्ठतालव्यौ ए ऐ।२२।
कण्ठोष्ठ्यौ ओ औ।२३।
स्वस्थाननासिकास्थानाः ङञणनमाः।२४।
सन्ध्यक्षराणि द्विवर्णानि।२५।
सरेफ ऋवर्णः। २६।
सलकार लृवर्णः।२७।
एवमेतानि स्थानानि।२७।


करण प्रकारणम्
करणं अपि। १।
जिह्व्यतालव्यमूर्धन्यदन्त्यानां करणं जिह्वा। २।
जिह्व्यानां जिह्वामूलेन। ३।
तालव्यानां जिह्वामध्येन। ४।
मूर्धन्यानां जिह्वोपाग्रेण। ५।
करणं वा जिह्वाग्राधः। ६।
दन्तानां जिह्वाग्रेण। ७।
स्वस्थानकरणाः शेष वर्णाः। ८।
एतत् करणमिति।८।








Shiva stotram hindi

नमामि देवं शशिशेखरं त्वां नमामि शम्भुं हृदि भावगम्यम्। नमामि रुद्रं परमं पुराणं नमामि नित्यं शिवमद्वितीयम्॥१॥ निराकारं त्वां परमार्थरूपं निर...